प्रज्ञावर्धनस्तोत्रम्

 अस्य श्रीप्रज्ञावर्धनस्तोत्रमंत्रस्य, सनत्कुमार ऋषिः, स्वामी कार्तिकेयो देवता,

अनुष्टुभ् छंदः, मम सकलविद्यासिद्ध्यर्थं जपे विनियोगः ।

 श्रीस्कंद उवाच ॥

योगीश्वरो महासेनः, कार्तिकेयोऽग्निनंदनः । स्कंदः कुमारः सेनानीः, स्वामीशंकरसंभवः ॥ १॥

गांगेयस्ताम्रचूडश्च, ब्रह्मचारी शिखिध्वजः । तारकारिरुमापुत्रः, क्रौंचारातिः षडाननः ॥ २ ॥

शब्दब्रह्मस्वरूपश्च, सिद्धः सारस्वतो गुरुः । सनत्कुमारो भगवान्, भोगमोक्षप्रदप्रभुः ॥ ३॥

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् । सर्वागमप्रणेताच, वांछितार्थप्रदर्शनः ॥ ४ ॥

(येथून पुढील फलश्रुती एकवेळा म्हणावी.)

अष्टाविंशति नामानि, मदीयानि च यः पठेत् ।

प्रत्यूषे श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥ ५ ॥

महामंत्रमयानीति, मम नामानि कीर्तयेत् । महाप्रज्ञामवाप्नोति, नात्र कार्या विचारणा ॥ ६ ॥

इति श्रीस्कंदपुराणे कार्तिकेयमाहात्म्ये प्रज्ञावर्धनस्तोत्रं संपूर्णम्

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top