श्री गणपती अथर्वशीर्ष
Shri Ganpati Atharvashirsh
श्री गजानन म्हंजे सर्वांचे स्वामी, ज्ञानाचे दैवत आणि सर्व सुखाचे उगमस्थान आहेत.
हरिः ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि।
त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यं ॥ १ ॥ ऋतं वच्मि । सत्यं वच्मि ॥ २॥
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् ।
अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।
अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवधरात्तात् । सर्वतो मां पाहि पाहि समंतात्॥ ३॥
त्वं वाडमयस्त्वं चिन्मयः । त्वमानंदमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानंदाद्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥
सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्तिष्ठाति।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः
। त्वं श्रीगणपत्यथर्वशीर्षम्चत्वारि वाक्पदानि ॥ ५॥ त्वं गुणत्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः । त्वां योगिनोध्यायन्ति नित्यम्।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥ ६ ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् । अनुस्वारः परतरः । अधेन्दुलसितं । तारेण ऋद्ध।
एतत्तवमनुस्वरूपम्।
गकार: पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चात्यरूपम्। बिंदुरुत्तररूपम्।
नादः संधानम्। संहिता संधिः। सैषा गणेशविद्या। गणक ऋषिः । निचृद्गायत्रीच्छंदः।
गणपतिर्देवता । ॐ गं गणपतये नमः ॥ ७ ॥ एकदंताय विघ्नहे वक्रतुण्डाय धीमहि ।
तन्नो दंति प्रचोदयात्।। ८ ।।
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्। रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।
रक्तं लंबोदरं शूर्पकर्णकरक्तवाससम्। रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम्।
भक्तानुकंपिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृतैः पुरुषात्परम्।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
नमोव्रातपतये नमो गणपतये नमः प्रमथपतये |
नमस्ते अस्तु लंबोदरयैकदंताय विघ्नानाशिने शिवसुताय वरदमूर्तये नमः ।। १० ।।
एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वतः सुखमेधते । स पंचमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुंजानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विंदति । इदमथर्वशीर्षमशिष्याय न देयं ।
यो यदि मोहाद्दास्यति स पापीयान् भवति।
सहस्त्रावर्तनात् । यं यं काममधीते तं तमनेन साधयेत्। अनेन गणपतिमभिषिंचति ।
स वाग्भीः भवति ।
चतुर्थ्यामश्नञ्जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम्। ब्रह्मद्यावरणं विद्यात्।
न बिभेति कदाचनेति।
यो दूर्वांकुरैर्यजति। स वैश्रवणोपमो भवति । यो लाजैर्यजति । स यशोवान्भवति। स मेधावान्भवति ।
यो मोदकसहस्त्रेण यजति। स वांछितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते ।
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ सिद्धमंत्रो भवति ।
महाविघ्नात्प्रमुच्यते महादोषात्प्रमुच्यते। महापापात्प्रमुच्यते ।
स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद इत्युपनिषत् ।।