अब श्रीगणेशाय नमः । अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिक ऋषिः ।
श्रीसीतारामचंद्रो देवता। अनुष्टुप् छंदः। सीता शक्तिः। श्रीमद्धनुमान कीलकम् ।
श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रमंत्रजपे विनियोगः ॥ ध्यानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम्। पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्। वामाङ्कारूड- सीतामुखकमलमिलोचनं नीरदाभम्।
नाना अलंकारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् इति ध्यानम् ।
चरितं रघुनाथस्य
शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १ ॥
ध्यात्वानीलोत्पलश्यामंरामंराजीवलोचनम् जानकीलक्ष्मणोपेतं नक्तं जटामुकुटमण्डितम् ॥ २॥
सासितूणधनुर्बाणपाणिं चरांतकम्। स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्। ‘शिरो मे राघवः पातु पातु भालं दशरथात्मजः ॥ ४॥
कौसल्येयो ‘दृशी’ विश्वमित्रप्रियः ‘श्रुतीः’। ‘घाणं’ पातु मखत्राता। ‘मुख’ सौमित्रिवत्सलः ॥५॥
‘जिव्हा’ विद्यानिधिः पातु, ‘कण्ठं’ भरतवन्दितः । ‘स्कंधौ दिव्यायुधः पातु, ‘भुजी’ भग्नेशकार्मुकः ॥ ६ ॥
‘करौ’ सितापतिः पातु, ‘हृदयं’ जामदम्यजित् । ‘मध्यं पातु खरध्वंसी, ‘नाभि’ जाम्बवदाश्रयः ॥ ७ ॥
सुग्रीवेश: ‘कटी’ पातु, ‘सक्थिनी ‘ हनुमत्प्रभुः । ऊरू रघुत्तमः पातु रक्षः कुलविनाशकृत् ॥ ८ ॥
‘जानुनी सेतुकृत्पातु, ‘जङ्घे दशमुखान्तकः । ‘पादी’ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९ ॥
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्। स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १० ॥ पातालभूतलव्योमचारिणश्च्छाचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि ।। ११ ।।
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्। नरो न लिप्यते पापैर्मुक्तिं मुक्तिं च विन्दति ॥ १२ ॥
जगजैत्रैकमंत्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३ ॥
वज्रपंजरनामेदं यो रामकवचं स्मरेत्। अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ।। १४।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः ।तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ॥ १५॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम्। अभिरामखिलोकानां रामः श्रीमान् सनः प्रभुः ।। १६||
तरुणौ रूपसंपन्नौ सुकुमारी महाबलो। पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरी ।। १७ ।।
फलमूलाशिनौ दान्तौ तापसौ बहाचारिणी । पुत्रौ दशरथस्यैती भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठी सर्वनुष्मताम्। रक्षःकुलनिहन्तारौ त्रायेतां नौ रघुत्तमी ।। १९ ।। आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसंगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २० ॥
सनंद्धः कवची खड्गी चापबाणधरोयुवा। गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २१॥
रामौ दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ||२२||
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३॥
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ||२४||
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नाम- भिर्दिव्यैर्न ते संसारिणो नरः ।। २५ ।।
रामः लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम्। काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्। राजेंद्र सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिम् । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ।। २६ ।।
रामाय रामभद्राय रामचंद्राय वेधसे। रघुनाथाय नाथाय सीतायाः पतये नमः॥ २७॥
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम। श्रीराम राम रणकर्कश राम राम श्रीरामराम शरणं भव राम राम ॥ २८ ॥
श्री रामचन्द्रचरणौ मनसा स्मरामि। श्रीरामचन्द्रचरणौ वचसा गृणामि । श्रीरामचन्द्रचरणी शिरसा नमामि। श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।। २९ ।।
माता रामो मत्पिता रामचन्द्रः। स्वामी रामो मत्सखा रामचन्द्रः सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ३० ॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा। पुरतो मारुतीर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१ ॥
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्। कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरण प्रपद्ये॥ ३२॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३३ ॥ कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुहा कविताशाखां वन्दे वाल्मीकिकोकिलम् ।। ३४ ।।
आपदापहतार दातारं सर्व संपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५ ॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम्। तर्जनं यमदूतानां रामरामेति गर्जनम् ।। ३६ ।।
रामो राजमणिः सदा विजयते रामं रमेशं भजे। रामेणाभिहता निशाचरचमू रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर । ३७॥
राम रामेति रामेति रमे रामे मनोरमे। सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८ ॥
॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥