!!!श्री गणपत्यथर्वशीर्षम्!!!

हरिः ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्तासि ।

त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यं ॥ १ ॥

ऋतं वच्मि । सत्यं वच्मि ॥ २॥ अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् ।

अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवधरात्तात् । सर्वतो मां पाहि पाहि समंतात्॥ ३॥

त्वं वाडमयस्त्वं चिन्मयः । त्वमानंदमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठाति। सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं श्रीगणपत्यथर्वशीर्षम्चत्वारि वाक्पदानि ॥ ५॥

त्वं गुणत्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः ।

त्वां योगिनोध्यायन्ति नित्यम्।

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥ ६ ॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् । अनुस्वारः परतरः । अधेन्दुलसितं । तारेण ऋद्ध।

एतत्तवमनुस्वरूपम्। गकार: पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चात्यरूपम्। बिंदुरुत्तररूपम्।

नादः संधानम्। संहिता संधिः। सैषा गणेशविद्या। गणक ऋषिः ।

निचृद्गायत्रीच्छंदः। गणपतिर्देवता । ॐ गं गणपतये नमः ॥ ७ ॥

एकदंताय विघ्नहे वक्रतुण्डाय धीमहि । तन्नो दंति प्रचोदयात्।। ८ ।।

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्। रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।

रक्तं लंबोदरं शूर्पकर्णकरक्तवाससम्। रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम्।

भक्तानुकंपिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृतैः पुरुषात्परम्।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

नमोव्रातपतये नमो गणपतये नमः प्रमथपतये

नमस्ते अस्तु लंबोदरयैकदंताय विघ्नानाशिने शिवसुताय वरदमूर्तये नमः ।। १० ।।

एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स सर्वविघ्नैर्न बाध्यते ।

स सर्वतः सुखमेधते । स पंचमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायं प्रातः प्रयुंजानो अपापो भवति। सर्वत्राधीयानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विंदति ।

इदमथर्वशीर्षमशिष्याय न देयं । ‘यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्त्रावर्तनात् ।

यं यं काममधीते तं तमनेन साधयेत्। अनेन गणपतिमभिषिंचति । स वाग्भीः भवति ।

चतुर्थ्यामश्नञ्जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम्। ब्रह्मद्यावरणं विद्यात्।

न बिभेति कदाचनेति। यो दूर्वांकुरैर्यजति। स वैश्रवणोपमो भवति । यो लाजैर्यजति ।

स यशोवान्भवति। स मेधावान्भवति । यो मोदकसहस्त्रेण यजति। स वांछितफलमवाप्नोति ।

यः साज्यसमिद्भिर्यजति स सर्वं लभते । अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति।

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ सिद्धमंत्रो भवति । महाविघ्नात्प्रमुच्यते महादोषात्प्रमुच्यते। महापापात्प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद इत्युपनिषत् ।।

ॐ भद्रंकर्णेभिः। स्वस्तिनः। सहनाववतु ।

सहनौ भुनक्तु । सहवीर्यं करवावहै । तेजस्विनावधीतमस्तु ।

मा विद्विषावहै ।

ॐ शान्तिः शान्तिः शान्तिः ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top